वांछित मन्त्र चुनें

यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ । सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥

अंग्रेज़ी लिप्यंतरण

yaṁ devāso janayantāgniṁ yasminn ājuhavur bhuvanāni viśvā | so arciṣā pṛthivīṁ dyām utemām ṛjūyamāno atapan mahitvā ||

पद पाठ

यम् । दे॒वासः॑ । अज॑नयन्त । अ॒ग्निम् । यस्मि॑न् । आ । अजु॑हवुः । भुव॑नानि । विश्वा॑ । सः । अ॒र्चिषा॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ऋ॒जु॒ऽयमा॑नः । अ॒त॒प॒त् । म॒हि॒ऽत्वा ॥ १०.८८.९

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:9 | अष्टक:8» अध्याय:4» वर्ग:11» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः) मुमुक्षुजन (यम्-अग्निम्) जिस वैश्वानर अग्नि परमात्मा को अपने आत्मा में (अजनयन्त) प्रादुर्भूत करते हैं (यस्मिन्) जिसके आश्रय (विश्वा-भुवनानि) सारे भाव-कामनाओं को समर्पित करते हैं (सः-अर्चिषा) वह अपने तेज से (द्यां पृथिवीम्-उत-इमाम्) द्युलोक पृथिवी-फैले हुए अन्तरिक्ष को उत्पन्न करता है (महित्वा-ऋजूयमानः) महत्त्व से सरलभाव से प्रकाशित करता है-उत्पन्न करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः) मुमुक्षवः (यम्-अग्निम्-अजनयन्त) यं वैश्वानरमग्निं परमात्मानं स्वात्मनि प्रादुर्भावयन्ति (यस्मिन्) यदाश्रये (विश्वा भुवनानि) सर्वान् भावान् कामान् समर्पयन्ति (सः-अर्चिषा) स तेजसा (द्याम्-पृथिवीम्-उत-इमाम्) द्युलोकमन्तरिक्षम् “पृथिवी-अन्तरिक्षनाम” [निघ० १।३] अपि चेमां पृथिवीं च (महित्वा-ऋजूयमानः) समहत्त्वेन सरलगमनः सहजस्वभावस्तपति-प्रकाशयति ॥९॥